धर्म

महाकाली कवच पाठ – Mahakali Kavacham

“महाकाली कवच पाठ” माता का आती अति प्रिय है। जो व्यक्ति काली कवच का नित्य रोज़ाना जाप करता हैं, उसके सभी पापों का नाश होता है।

पढें महाकाली कवच पाठ

भैरव्युवाच
काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।
इदानीं श्रोतु मिच्छामि कवचं पूर्व सूचितम् ॥

त्वमेव शरणं नाथ त्राहि माम् दुःख संकटात् ।
सर्व दुःख प्रशमनं सर्व पाप प्रणाशनम् ॥

सर्व सिद्धि प्रदं पुण्यं कवचं परमाद्भुतम् ।
अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥

भैरवोवाच
रहस्यं श्रृणु वक्ष्यामि भैरवि प्राण वल्लभे ।
श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥

पाठयित्वा धारयित्वा त्रौलोक्यं मोहयेत्क्षणात् ।
नारायणोऽपि यद्धत्वा नारी भूत्वा महेश्वरम् ॥

योगिनं क्षोभमनयत् यद्धृत्वा च रघूद्वहः ।
वरदीप्तां जघानैव रावणादि निशाचरान् ॥

यस्य प्रसादादीशोऽपि त्रैलोक्य विजयी प्रभुः ।
धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः ।
एवं च सकला देवाः सर्वसिद्धिश्वराः प्रिये ॥

विनियोग
ॐ श्री जगन्मङ्गलस्याय कवचस्य ऋषिः शिवः ।
छ्न्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ॥

जगतां मोहने दुष्ट विजये भुक्तिमुक्तिषु ।
यो विदाकर्षणे चैव विनियोगः प्रकीर्तितः ॥

अथ कवचम्
शिरो मे कालिकां पातु क्रींकारैकाक्षरीपर ।
क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्‌गधारिणी ॥

हूं हूं पातु नेत्रयुग्मं ह्नीं ह्नीं पातु श्रुति द्वयम् ।
दक्षिणे कालिके पातु घ्राणयुग्मं महेश्वरि ॥

क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपोलकम् ।
वदनं सकलं पातु ह्णीं ह्नीं स्वाहा स्वरूपिणी ॥

द्वाविंशत्यक्षरी स्कन्धौ महाविद्यासुखप्रदा ।
खड्‌गमुण्डधरा काली सर्वाङ्गभितोऽवतु ॥

क्रीं हूं ह्नीं त्र्यक्षरी पातु चामुण्डा ह्रदयं मम ।
ऐं हूं ऊं ऐं स्तन द्वन्द्वं ह्नीं फट् स्वाहा ककुत्स्थलम् ॥

अष्टाक्षरी महाविद्या भुजौ पातु सकर्तुका ।
क्रीं क्रीं हूं हूं ह्नीं ह्नीं पातु करौ षडक्षरी मम ॥

क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकेऽवतु ।
क्रीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी ॥

क्रीं मे गुह्नं सदा पातु कालिकायै नमस्ततः ।
सप्ताक्षरी महाविद्या सर्वतंत्रेषु गोपिता ॥

ह्नीं ह्नीं दक्षिणे कालिके हूं हूं पातु कटिद्वयम् ।
काली दशाक्षरी विद्या स्वाहान्ता चोरुयुग्मकम् ॥

ॐ ह्नीं क्रींमे स्वाहा पातु जानुनी कालिका सदा ।
काली ह्रन्नामविधेयं चतुवर्ग फलप्रदा ॥

क्रीं ह्नीं ह्नीं पातु सा गुल्फं दक्षिणे कालिकेऽवतु ।
क्रीं हूं ह्नीं स्वाहा पदं पातु चतुर्दशाक्षरी मम ॥

खड्‌गमुण्डधरा काली वरदाभयधारिणी ।
विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु ॥

काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ।
विपचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः ॥

नीला घना वलाका च मात्रा मुद्रा मिता च माम् ।
एताः सर्वाः खड्‌गधरा मुण्डमाला विभूषणाः ॥

रक्षन्तु मां दिग्निदिक्षु ब्राह्मी नारायणी तथा ।
माहेश्वरी च चामुण्डा कौमारी चापराजिता ॥

वाराही नारसिंही च सर्वाश्रयऽति भूषणाः ।
रक्षन्तु स्वायुधेर्दिक्षुः दशकं मां यथा तथा ॥

प्रतिफलम्
इति ते कथित दिव्य कवचं परमाद्भुतम् ।
श्री जगन्मङ्गलं नाम महामंत्रौघ विग्रहम् ॥

त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् ।
गुरु पूजां विधायाथ विधिवत्प्रपठेत्ततः ॥

कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः ।
एतच्छतार्धमावृत्य त्रैलोक्य विजयी भवेत् ॥

त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ।
महाकविर्भवेन्मासात् सर्वसिद्धीश्वरो भवेत् ॥

पुष्पाञ्जलीन् कालिका यै मुलेनैव पठेत्सकृत् ।
शतवर्ष सहस्त्राणाम पूजायाः फलमाप्नुयात् ॥

भूर्जे विलिखितं चैतत् स्वर्णस्थं धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारणाद् बुधः ॥

त्रैलोक्यं मोहयेत्क्रोधात् त्रैलोक्यं चूर्णयेत्क्षणात् ।
पुत्रवान् धनवान् श्रीमान् नानाविद्या निधिर्भवेत् ॥

ब्रह्मास्त्रादीनि शस्त्राणि तद् गात्र स्पर्शवात्ततः ।
नाशमायान्ति सर्वत्र कवचस्यास्य कीर्तनात् ॥

मृतवत्सा च या नारी वन्ध्या वा मृतपुत्रिणी ।
कण्ठे वा वामबाहौ वा कवचस्यास्य धारणात् ॥

वह्वपत्या जीववत्सा भवत्येव न संशयः ।
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥

शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ।
स्पर्शामुद्‌धूय कमला वाग्देवी मन्दिरे मुखे ।

पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥
इदं कवचं न ज्ञात्वा यो जपेद्दक्षकालिकाम् ।

शतलक्षं प्रजप्त्वापि तस्य विद्या न सिद्धयति ।
शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर महाकाली कवच पाठ को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें महाकाली कवच पाठ रोमन में–

Read Mahakali Kavacham

bhairavyuvāca
kālī pūjā śrutā nātha bhāvāśca vividhāḥ prabho ।
idānīṃ śrotu micchāmi kavacaṃ pūrva sūcitam ॥

tvameva śaraṇaṃ nātha trāhi mām duḥkha saṃkaṭāt ।
sarva duḥkha praśamanaṃ sarva pāpa praṇāśanam ॥

sarva siddhi pradaṃ puṇyaṃ kavacaṃ paramādbhutam ।
ato vai śrotumicchāmi vada me karuṇānidhe ॥

bhairavovāca
rahasyaṃ śrṛṇu vakṣyāmi bhairavi prāṇa vallabhe ।
śrī jaganmaṅgalaṃ nāma kavacaṃ maṃtra vigraham ॥

pāṭhayitvā dhārayitvā traulokyaṃ mohayetkṣaṇāt ।
nārāyaṇo’pi yaddhatvā nārī bhūtvā maheśvaram ॥

yoginaṃ kṣobhamanayat yaddhṛtvā ca raghūdvahaḥ ।
varadīptāṃ jaghānaiva rāvaṇādi niśācarān ॥

yasya prasādādīśo’pi trailokya vijayī prabhuḥ ।
dhanādhipaḥ kubero’pi sureśo’bhūcchacīpatiḥ ।
evaṃ ca sakalā devāḥ sarvasiddhiśvarāḥ priye ॥

viniyoga
oṃ śrī jaganmaṅgalasyāya kavacasya ṛṣiḥ śivaḥ ।
chndo’nuṣṭup devatā ca kālikā dakṣiṇeritā ॥

jagatāṃ mohane duṣṭa vijaye bhuktimuktiṣu ।
yo vidākarṣaṇe caiva viniyogaḥ prakīrtitaḥ ॥

atha kavacam
śiro me kālikāṃ pātu krīṃkāraikākṣarīpara ।
krīṃ krīṃ krīṃ me lalāṭaṃ ca kālikā khaḍ‌gadhāriṇī ॥

hūṃ hūṃ pātu netrayugmaṃ hnīṃ hnīṃ pātu śruti dvayam ।
dakṣiṇe kālike pātu ghrāṇayugmaṃ maheśvari ॥

krīṃ krīṃ krīṃ rasanāṃ pātu hūṃ hūṃ pātu kapolakam ।
vadanaṃ sakalaṃ pātu hṇīṃ hnīṃ svāhā svarūpiṇī ॥

dvāviṃśatyakṣarī skandhau mahāvidyāsukhapradā ।
khaḍ‌gamuṇḍadharā kālī sarvāṅgabhito’vatu ॥

krīṃ hūṃ hnīṃ tryakṣarī pātu cāmuṇḍā hradayaṃ mama ।
aiṃ hūṃ ūṃ aiṃ stana dvandvaṃ hnīṃ phaṭ svāhā kakutsthalam ॥

aṣṭākṣarī mahāvidyā bhujau pātu sakartukā ।
krīṃ krīṃ hūṃ hūṃ hnīṃ hnīṃ pātu karau ṣaḍakṣarī mama ॥

krīṃ nābhiṃ madhyadeśaṃ ca dakṣiṇe kālike’vatu ।
krīṃ svāhā pātu pṛṣṭhaṃ ca kālikā sā daśākṣarī ॥

krīṃ me guhnaṃ sadā pātu kālikāyai namastataḥ ।
saptākṣarī mahāvidyā sarvataṃtreṣu gopitā ॥

hnīṃ hnīṃ dakṣiṇe kālike hūṃ hūṃ pātu kaṭidvayam ।
kālī daśākṣarī vidyā svāhāntā coruyugmakam ॥

oṃ hnīṃ krīṃme svāhā pātu jānunī kālikā sadā ।
kālī hrannāmavidheyaṃ catuvarga phalapradā ॥

krīṃ hnīṃ hnīṃ pātu sā gulphaṃ dakṣiṇe kālike’vatu ।
krīṃ hūṃ hnīṃ svāhā padaṃ pātu caturdaśākṣarī mama ॥

khaḍ‌gamuṇḍadharā kālī varadābhayadhāriṇī ।
vidyābhiḥ sakalābhiḥ sā sarvāṅgamabhito’vatu ॥

kālī kapālinī kullā kurukullā virodhinī ।
vipacittā tathogrograprabhā dīptā ghanatviṣaḥ ॥

nīlā ghanā valākā ca mātrā mudrā mitā ca mām ।
etāḥ sarvāḥ khaḍ‌gadharā muṇḍamālā vibhūṣaṇāḥ ॥

rakṣantu māṃ dignidikṣu brāhmī nārāyaṇī tathā ।
māheśvarī ca cāmuṇḍā kaumārī cāparājitā ॥

vārāhī nārasiṃhī ca sarvāśraya’ti bhūṣaṇāḥ ।
rakṣantu svāyudherdikṣuḥ daśakaṃ māṃ yathā tathā ॥

pratiphalam
iti te kathita divya kavacaṃ paramādbhutam ।
śrī jaganmaṅgalaṃ nāma mahāmaṃtraugha vigraham ॥

trailokyākarṣaṇaṃ brahmakavacaṃ manmukhoditam ।
guru pūjāṃ vidhāyātha vidhivatprapaṭhettataḥ ॥

kavacaṃ triḥsakṛdvāpi yāvajjñānaṃ ca vā punaḥ ।
etacchatārdhamāvṛtya trailokya vijayī bhavet ॥

trailokyaṃ kṣobhayatyeva kavacasya prasādataḥ ।
mahākavirbhavenmāsāt sarvasiddhīśvaro bhavet ॥

puṣpāñjalīn kālikā yai mulenaiva paṭhetsakṛt ।
śatavarṣa sahastrāṇāma pūjāyāḥ phalamāpnuyāt ॥

bhūrje vilikhitaṃ caitat svarṇasthaṃ dhārayedyadi ।
śikhāyāṃ dakṣiṇe bāhau kaṇṭhe vā dhāraṇād budhaḥ ॥

trailokyaṃ mohayetkrodhāt trailokyaṃ cūrṇayetkṣaṇāt ।
putravān dhanavān śrīmān nānāvidyā nidhirbhavet ॥

brahmāstrādīni śastrāṇi tad gātra sparśavāttataḥ ।
nāśamāyānti sarvatra kavacasyāsya kīrtanāt ॥

mṛtavatsā ca yā nārī vandhyā vā mṛtaputriṇī ।
kaṇṭhe vā vāmabāhau vā kavacasyāsya dhāraṇāt ॥

vahvapatyā jīvavatsā bhavatyeva na saṃśayaḥ ।
na deyaṃ paraśiṣyebhyo hyabhaktebhyo viśeṣataḥ ॥

śiṣyebhyo bhaktiyuktebhyo hyanyathā mṛtyumāpnuyāt ।
sparśāmud‌dhūya kamalā vāgdevī mandire mukhe ।

pautrāntaṃ sthairyamāsthāya nivasatyeva niścitam ॥
idaṃ kavacaṃ na jñātvā yo japeddakṣakālikām ।

śatalakṣaṃ prajaptvāpi tasya vidyā na siddhayati ।
śastraghātamāpnoti so’cirānmṛtyumāpnuyāt ॥

यह भी पढ़े

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

2 thoughts on “महाकाली कवच पाठ – Mahakali Kavacham

  • Bharty

    Very good article.
    May i request to make this printable possible. Thanq.

    Reply
    • HindiPath

      Bharty Ji, thank you for you comment. We have make Mahakali Kavacham PDF available for download.

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version