शिव महिम्न स्तोत्र – Shiv Mahimna Stotra
“शिव महिम्न स्तोत्र” (Shiv Mahimna Stotram) इस शक्तिशाली स्तोत्र को पुष्पदंत गंधर्व ने लिखा है। जो कोई व्यक्ति सच्चे दिल से इसका पाठ करता हैं, उस पर शिव जी की दिव्य कृपा प्राप्त होती है। हर सोमवार के दिन इसका पाठ करना शुभ और लाभदायक होता है। पढ़ें यह शिवमहिम्न स्तोत्रम्-
महिम्न: पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।
अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवाद: परिकर: ॥1॥
अतीत: पन्थानं तव च महिमा वाड्मनसयो
रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्य: कतिविधगुण: कस्य विषय:
पदे त्वर्वाचीने पतति न मन: कस्य न वच: ॥2॥
मधुस्फीता वाच: परमममृतं निर्मितवत
स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवत:
पुनामीत्यर्थेsस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥3॥
तवैश्चर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधिय: ॥4॥
किमीह: किंकाय स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदु:स्तो हतधिय:
कुतर्कोsयं कांश्चिन्मुखरयति मोहाय जगत: ॥5॥
अजन्मानो लोका: किमवयववन्तोsपि जगता
मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥6॥
त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥7॥
महोक्ष: खट्वांगं परशुरजिनं भस्म फणिन:
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृधिं दधति च भवद्भ्रूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥8॥
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्ते sप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥9॥
तवैश्चर्यं यत्नाद् यदुपरि विरिंचो हरिरध:
परिच्छेत्तुं यातावनलमनलस्कन्धवपुष: ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥10॥
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद् बाहूनभृत रणकण्डूपरवशान् ।
शिर:पद्मश्रेणीरचितचरणाम्भोरुहबले:
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥11॥
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात् कैलासेsपि त्वदधिवसतौ विक्रमयत: ।
अलभ्या पातालेsप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खल: ॥12॥
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती
मधश्चक्रे बाण: परिजनविधेयत्रिभुवन: ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो
र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनति: ॥13॥
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा
विधेयस्यासीद्यस्त्रिनयनविषं संहृतवत: ।
स कल्माष: कण्ठे तव न कुरुते न श्रियमहो
विकारोsपि श्लाघ्यो भुवनभयभंगव्यसनिन: ॥14॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखा: ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मर: स्मर्तव्यात्मा नहि वशिषु पथ्य: परिभव: ॥15॥
यह भी पढ़ें – हरितालिका तीज व्रत कथा
मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥16॥
वियद्व्यापी तारागणगुणितफेनोद्ग्मरुचि:
प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते ।
जगद् द्वीपाकारं जलधिवलयं तेन कृतमि
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: ॥17॥
रथ: क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथांगे चन्द्रार्कौ रथचरणपाणि: शर इति ।
दिधक्षोस्ते कोsयं त्रिपुरतृणमाडम्बरविधि
र्विधेयै: क्रीडन्त्यो न खलु परतन्त्रा: प्रभुधिय: ॥18॥
हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो
र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेक: परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥19॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकर: कर्मसु जन: ॥20॥
क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृता
मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणा: ।
क्रतुभ्रेषस्त्वत्त: क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तु: श्रद्धाविधुरमभिचाराय हि मखा: ॥21॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेsद्यापि त्यजति न मृगव्याधरभस: ॥22॥
स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्
पुर: प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना
दवैति त्वामद्धा बत वरद मुग्धा युवतय: ॥23॥
“>श्मशानेष्वाक्रीडा स्मरहर पिशाचा: सहचरा
श्चिताभस्मलेप: स्त्रगपि नृकरोटीपरिकर: ।
अमंगलल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तृणां वरद परमं मंगलमसि ॥24॥
मन: प्रत्यक्चित्ते सविधमवधायात्तमरुत:
प्रहृष्यद्रोमाण: प्रमदसलिलोत्संगितदृश: ।
यदालोक्याह्लादं हृद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥25॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥26॥
त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभि:
समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम् ॥27॥
भव: शर्वो रुद्र: पशुपतिरथोग्र: सहमहां
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रविहितनमस्योsस्मि भवते ॥28॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नम: क्षोदिष्ठाय स्मरहर महिष्ठाय च नम: ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नम: सर्वस्मै ते तदिदमिति शर्वाय च नम: ॥29॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नम:
प्रबलतमसे तत्संहारे हराय नमो नम: ।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नम:
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नम: ॥30॥
कृशपरिणति चेत: क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धि: ।
इति चकितममन्दीकृत्य मां भक्तिराधाद्
वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥31॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥32॥
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठ: पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तै: स्तोत्रमेतच्चकार ॥33॥
अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्त: पुमान् य: ।
स भवति शिवलोके रुद्रतुल्यस्तथात्र
प्रचुरतरधनायु: पुत्रवान् कीर्तिमांश्च ॥34॥
महेशान्नापरो देवो महिम्नो नापरा स्तुति: ।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरो: परम् ॥35॥
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिका: क्रिया: ।
महिम्न: स्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥36॥
कुसुमदशननामा सर्वगन्धर्वराज:
शिशुशशिधरमौलेर्देवदेवस्य दास: ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न: ॥37॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्य: प्रांजलिर्नान्यचेता: ।
व्रजति शिवसमीपं किन्नरै: स्तूयमान:
स्तवनमिदममोघं पुष्पदन्तप्रणितम् ॥38॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।
अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥39॥
इत्येषा वाड्मयी पूजा श्रीमच्छंकरपादयो: ।
अर्पिता तेन देवेश: प्रीयतां मे सदाशिव: ॥40॥
तव तत्त्वं न जानामि कीदृशोsसि महेश्वर ।
यादृशोsसि महादेव तादृशाय नमो नम: ॥41॥
एककालं द्विकालं वा त्रिकालं य: पठेन्नर: ।
सर्वपापविनिर्मुक्त: शिवलोके महीयते ॥42॥
श्रीपुष्पदन्तमुखपंकजनिर्गतेन
स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेश: ॥43॥
॥इति गन्ध्र्वराजपुष्पदन्तकृतं शिवमहिम्न: स्तोत्रं सम्पूर्णम् ॥
विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह शिव महिम्न: स्तोत्र (Shiv Mahimna Stotram Lyrics) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें शिवमहिम्न: स्तोत्रम् स्तोत्र रोमन में–
Read Shiv Mahimna Stotram
mahimna: pāraṃ te paramaviduṣo yadyasadṛśī
stutirbrahmādīnāmapi tadavasannāstvayi gira: ।
athāvācya: sarva: svamatipariṇāmāvadhi gṛṇan
mamāpyeṣa stotre hara nirapavāda: parikara: ॥1॥
atīta: panthānaṃ tava ca mahimā vāḍmanasayo
ratadvyāvṛttyā yaṃ cakitamabhidhatte śrutirapi ।
sa kasya stotavya: katividhaguṇa: kasya viṣaya:
pade tvarvācīne patati na mana: kasya na vaca: ॥2॥
madhusphītā vāca: paramamamṛtaṃ nirmitavata
stava brahman kiṃ vāgapi suragurorvismayapadam ।
mama tvetāṃ vāṇīṃ guṇakathanapuṇyena bhavata:
punāmītyarthessmin puramathana buddhirvyavasitā ॥3॥
tavaiścaryaṃ yattajjagadudayarakṣāpralayakṛt
trayīvastuvyastaṃ tisṛṣu guṇabhinnāsu tanuṣu ।
abhavyānāmasmin varada ramaṇīyāmaramaṇīṃ
vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiya: ॥4॥
kimīha: kiṃkāya sa khalu kimupāyastribhuvanaṃ
kimādhāro dhātā sṛjati kimupādāna iti ca ।
atarkyaiśvarye tvayyanavasaradu:sto hatadhiya:
kutarkosyaṃ kāṃścinmukharayati mohāya jagata: ॥5॥
ajanmāno lokā: kimavayavavantospi jagatā
madhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati ।
madhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati ।
yato mandāstvāṃ pratyamaravara saṃśerata ime ॥6॥
trayī sāṃkhyaṃ yoga: paśupatimataṃ vaiṣṇavamiti
prabhinne prasthāne paramidamada: pathyamiti ca ।
rucīnāṃ vaicitryādṛjukuṭilanānāpathajuṣāṃ
nṛṇāmeko gamyastvamasi payasāmarṇava iva ॥7॥
mahokṣa: khaṭvāṃgaṃ paraśurajinaṃ bhasma phaṇina:
kapālaṃ cetīyattava varada tantropakaraṇam ।
surāstāṃ tāmṛdhiṃ dadhati ca bhavadbhrūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati ॥8॥
dhruvaṃ kaścit sarvaṃ sakalamaparastvadhruvamidaṃ
paro dhrauvyādhrauvye jagati gadati vyastaviṣaye ।
samaste spyetasmin puramathana tairvismita iva
stuvaṃjihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā ॥9॥
tavaiścaryaṃ yatnād yadupari viriṃco hariradha:
paricchettuṃ yātāvanalamanalaskandhavapuṣa: ।
tato bhaktiśraddhābharagurugṛṇadbhyāṃ giriśa yat
svayaṃ tasthe tābhyāṃ tava kimanuvṛttirna phalati ॥10॥
ayatnādāpādya tribhuvanamavairavyatikaraṃ
daśāsyo yad bāhūnabhṛta raṇakaṇḍūparavaśān ।
śira:padmaśreṇīracitacaraṇāmbhoruhabale:
sthirāyāstvadbhaktestripurahara visphūrjitamidam ॥11॥
amuṣya tvatsevāsamadhigatasāraṃ bhujavanaṃ
balāt kailāsespi tvadadhivasatau vikramayata: ।
alabhyā pātālespyalasacalitāṃguṣṭhaśirasi
pratiṣṭhā tvayyāsīd dhruvamupacito muhyati khala: ॥12॥
yadṛddhiṃ sutrāmṇo varada paramoccairapi satī
madhaścakre bāṇa: parijanavidheyatribhuvana: ।
na taccitraṃ tasmin varivasitari tvaccaraṇayo
rna kasyāpyunnatyai bhavati śirasastvayyavanati: ॥13॥
akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpā
vidheyasyāsīdyastrinayanaviṣaṃ saṃhṛtavata: ।
sa kalmāṣa: kaṇṭhe tava na kurute na śriyamaho
vikārospi ślāghyo bhuvanabhayabhaṃgavyasanina: ॥14॥
asiddhārthā naiva kvacidapi sadevāsuranare
nivartante nityaṃ jagati jayino yasya viśikhā: ।
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smara: smartavyātmā nahi vaśiṣu pathya: paribhava: ॥15॥
mahī pādāghātād vrajati sahasā saṃśayapadaṃ
padaṃ viṣṇorbhrāmyadbhujaparigharugṇagrahagaṇam ।
muhurdyaurdau:sthyaṃ yātyanibhṛtajaṭātāḍitataṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā ॥16॥
viyadvyāpī tārāgaṇaguṇitaphenodgmaruci:
pravāho vārāṃ ya: pṛṣatalaghudṛṣṭa: śirasi te ।
jagad dvīpākāraṃ jaladhivalayaṃ tena kṛtami
tyanenaivonneyaṃ dhṛtamahima divyaṃ tava vapu: ॥17॥
ratha: kṣoṇī yantā śatadhṛtiragendro dhanuratho
rathāṃge candrārkau rathacaraṇapāṇi: śara iti ।
didhakṣoste kosyaṃ tripuratṛṇamāḍambaravidhi
rvidheyai: krīḍantyo na khalu paratantrā: prabhudhiya: ॥18॥
hariste sāhastraṃ kamalabalimādhāya padayo
ryadekone tasmin nijamudaharannetrakamalam ।
gato bhaktyudreka: pariṇatimasau cakravapuṣā
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām ॥19॥
kratau supte jāgrattvamasi phalayoge kratumatāṃ
kva karma pradhvastaṃ phalati puruṣārādhanamṛte ।
atastvāṃ samprekṣya kratuṣu phaladānapratibhuvaṃ
śrutau śraddhāṃ baddhvā dṛḍhaparikara: karmasu jana: ॥20॥
kriyādakṣo dakṣa: kratupatiradhīśastanubhṛtā
mṛṣīṇāmārtvijyaṃ śaraṇada sadasyā: suragaṇā: ।
kratubhreṣastvatta: kratuphalavidhānavyasanino
dhruvaṃ kartu: śraddhāvidhuramabhicārāya hi makhā: ॥21॥
prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaraṃ
gataṃ rohidbhūtāṃ riramayiṣumṛṣyasya vapuṣā ।
dhanuṣpāṇeryātaṃ divamapi sapatrākṛtamamuṃ
trasantaṃ tesdyāpi tyajati na mṛgavyādharabhasa: ॥22॥
svalāvaṇyāśaṃsādhṛtadhanuṣamahnāya tṛṇavat
pura: pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudhamapi ।
yadi straiṇaṃ devī yamaniratadehārdhaghaṭanā
davaiti tvāmaddhā bata varada mugdhā yuvataya: ॥23॥
“>śmaśāneṣvākrīḍā smarahara piśācā: sahacarā
ścitābhasmalepa: stragapi nṛkaroṭīparikara: ।
amaṃgalalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ
tathāpi smartṛṇāṃ varada paramaṃ maṃgalamasi ॥24॥
mana: pratyakcitte savidhamavadhāyāttamaruta:
prahṛṣyadromāṇa: pramadasalilotsaṃgitadṛśa: ।
yadālokyāhlādaṃ hṛda iva nimajyāmṛtamaye
dadhatyantastattvaṃ kimapi yaminastat kila bhavān ॥25॥
tvamarkastvaṃ somastvamasi pavanastvaṃ hutavaha
stvamāpastvaṃ vyoma tvamu dharaṇirātmā tvamiti ca ।
paricchinnāmevaṃ tvayi pariṇatā bibhratu giraṃ
na vidmastattattvaṃ vayamiha tu yattvaṃ na bhavasi ॥26॥
trayīṃ tistro vṛttīstribhuvanamatho trīnapi surā
nakārādyairvarṇaistribhirabhidadhat tīrṇavikṛti ।
turīyaṃ te dhāma dhvanibhiravarundhānamaṇubhi:
samastaṃ vyastaṃ tvaṃ śaraṇada gṛṇātyomiti padam ॥27॥
bhava: śarvo rudra: paśupatirathogra: sahamahāṃ
stathā bhīmeśānāviti yadabhidhānāṣṭakamidam ।
amuṣmin pratyekaṃ pravicarati deva śrutirapi
priyāyāsmai dhāmne pravihitanamasyossmi bhavate ॥28॥
namo nediṣṭhāya priyadava daviṣṭhāya ca namo
nama: kṣodiṣṭhāya smarahara mahiṣṭhāya ca nama: ।
namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo
nama: sarvasmai te tadidamiti śarvāya ca nama: ॥29॥
bahularajase viśvotpattau bhavāya namo nama:
prabalatamase tatsaṃhāre harāya namo nama: ।
janasukhakṛte sattvodriktau mṛḍāya namo nama:
pramahasi pade nistraiguṇye śivāya namo nama: ॥30॥
kṛśapariṇati ceta: kleśavaśyaṃ kva cedaṃ
kva ca tava guṇasīmollaṃghinī śaśvadṛddhi: ।
iti cakitamamandīkṛtya māṃ bhaktirādhād
varada caraṇayoste vākyapuṣpopahāram ॥31॥
asitagirisamaṃ syāt kajjalaṃ sindhupātre
surataruvaraśākhā lekhanī patramurvī ।
likhati yadi gṛhītvā śāradā sarvakālaṃ
tadapi tava guṇānāmīśa pāraṃ na yāti ॥32॥
asurasuramunīndrairarcitasyendumaule
rgrathitaguṇamahimno nirguṇasyeśvarasya ।
sakalagaṇavariṣṭha: puṣpadantābhidhāno
ruciramalaghuvṛttai: stotrametaccakāra ॥33॥
aharaharanavadyaṃ dhūrjaṭe: stotrametat
paṭhati paramabhaktyā śuddhacitta: pumān ya: ।
sa bhavati śivaloke rudratulyastathātra
pracurataradhanāyu: putravān kīrtimāṃśca ॥34॥
maheśānnāparo devo mahimno nāparā stuti: ।
aghorānnāparo mantro nāsti tattvaṃ guro: param ॥35॥
dīkṣā dānaṃ tapastīrthaṃ jñānaṃ yāgādikā: kriyā: ।
mahimna: stavapāṭhasya kalāṃ nārhanti ṣoḍaśīm ॥36॥
kusumadaśananāmā sarvagandharvarāja:
śiśuśaśidharamaulerdevadevasya dāsa: ।
sa khalu nijamahimno bhraṣṭa evāsya roṣāt
stavanamidamakārṣīd divyadivyaṃ mahimna: ॥37॥
suravaramunipūjyaṃ svargamokṣaikahetuṃ
paṭhati yadi manuṣya: prāṃjalirnānyacetā: ।
vrajati śivasamīpaṃ kinnarai: stūyamāna:
stavanamidamamoghaṃ puṣpadantapraṇitam ॥38॥
āsamāptamidaṃ stotraṃ puṇyaṃ gandharvabhāṣitam ।
anaupamyaṃ manohāri śivamīśvaravarṇanam ॥39॥
ityeṣā vāḍmayī pūjā śrīmacchaṃkarapādayo: ।
arpitā tena deveśa: prīyatāṃ me sadāśiva: ॥40॥
tava tattvaṃ na jānāmi kīdṛśossi maheśvara ।
yādṛśossi mahādeva tādṛśāya namo nama: ॥41॥
ekakālaṃ dvikālaṃ vā trikālaṃ ya: paṭhennara: ।
sarvapāpavinirmukta: śivaloke mahīyate ॥42॥
śrīpuṣpadantamukhapaṃkajanirgatena
stotreṇa kilbiṣahareṇa harapriyeṇa ।
kaṇṭhasthitena paṭhitena samāhitena
suprīṇito bhavati bhūtapatirmaheśa: ॥43॥
॥iti gandhrvarājapuṣpadantakṛtaṃ śivamahimna: stotraṃ sampūrṇam ॥