धर्म

उमामहेश्वर स्तोत्र – UmaMaheshwar Stotra Lyrics

पढ़ें “उमामहेश्वर स्तोत्र” लिरिक्स

नमः शिवाभ्यां नवयौवनाभ्याम्,
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नागेन्द्रकन्यावृषकेतनाभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥

नमः शिवाभ्यां सरसोत्सवाभ्याम्,
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां,
नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥

नमः शिवाभ्यां वृषवाहनाभ्याम्,
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥

नमः शिवाभ्यां जगदीश्वराभ्याम्,
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥

नमः शिवाभ्यां परमौषधाभ्याम्,
पञ्चाक्षरी पञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थिति संहृताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥

नमः शिवाभ्यामतिसुन्दराभ्याम्,
अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥

नमः शिवाभ्यां कलिनाशनाभ्याम्,
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥

नमः शिवाभ्यामशुभापहाभ्याम्,
अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्याम् स्मृतिसम्भृताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ ८॥

नमः शिवाभ्यां रथवाहनाभ्याम्,
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ ९॥

नमः शिवाभ्यां जटिलन्धरभ्याम्,
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्याम्,
नमो नमः शङ्करपार्वतीभ्याम् ॥ १०॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर यह उमामहेश्वर स्तोत्र (UmaMaheshwar Stotra Lyrics) को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें उमा महेश्वर स्तोत्रम रोमन में–

UmaMaheshwar Stotra

namaḥ śivābhyāṃ navayauvanābhyām,
parasparāśliṣṭavapurdharābhyām ।
nāgendrakanyāvṛṣaketanābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 1॥

namaḥ śivābhyāṃ sarasotsavābhyām,
namaskṛtābhīṣṭavarapradābhyām ।
nārāyaṇenārcitapādukābhyāṃ,
namo namaḥ śaṅkarapārvatībhyām ॥ 2॥

namaḥ śivābhyāṃ vṛṣavāhanābhyām,
viriñciviṣṇvindrasupūjitābhyām ।
vibhūtipāṭīravilepanābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 3॥

namaḥ śivābhyāṃ jagadīśvarābhyām,
jagatpatibhyāṃ jayavigrahābhyām ।
jambhārimukhyairabhivanditābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 4॥

namaḥ śivābhyāṃ paramauṣadhābhyām,
pañcākṣarī pañjararañjitābhyām ।
prapañcasṛṣṭisthiti saṃhṛtābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 5॥

namaḥ śivābhyāmatisundarābhyām,
atyantamāsaktahṛdambujābhyām ।
aśeṣalokaikahitaṅkarābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 6॥

namaḥ śivābhyāṃ kalināśanābhyām,
kaṅkālakalyāṇavapurdharābhyām ।
kailāsaśailasthitadevatābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 7॥

namaḥ śivābhyāmaśubhāpahābhyām,
aśeṣalokaikaviśeṣitābhyām ।
akuṇṭhitābhyām smṛtisambhṛtābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 8॥

namaḥ śivābhyāṃ rathavāhanābhyām,
ravīnduvaiśvānaralocanābhyām ।
rākāśaśāṅkābhamukhāmbujābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 9॥

namaḥ śivābhyāṃ jaṭilandharabhyām,
jarāmṛtibhyāṃ ca vivarjitābhyām ।
janārdanābjodbhavapūjitābhyām,
namo namaḥ śaṅkarapārvatībhyām ॥ 10॥

यह भी पढ़ें

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!
Exit mobile version