धर्म

श्रीरुद्रप्रश्न लघुन्यास – Shri Rudra Prashna Laghunyasa Lyrics – Namakam Chamakam

श्रीरुद्रप्रश्न लघुन्यास (Shr Rudra Laghunyasa) एक प्राचीन संस्कृत स्तोत्र है जो ‘यजुर्वेद’ की ‘कृष्णयजुर्वेद’ शाखा से संबंधित है। इसमें भगवान शिव की महिमा और महत्व का वर्णन किया गया है। इसे ‘लघुन्यास’ के रूप में जाना जाता है, जिसमें अनेक स्तुतियाँ की गई है। इसमें विभिन्न मंत्रों का प्रयोग होता है जो भगवान शिव की आराधना, पूजा और स्तोत्र के रूप में प्रयोग किए जाते हैं।

यह (Rudram) स्तोत्र विशेष रूप से शिव पूजा में आदिकाल से ही प्रयोग में आया है और उसके आध्यात्मिक महत्व को बताता है। रुद्र लघुन्यास (Shri Rudra Prashna Laghunyasa) का पाठ करने से व्यक्ति की आत्मा को शांति, शक्ति और प्रसन्नता की भावना प्राप्त होती है। श्री रुद्र लघुन्यास के मंत्रों का पाठ करने से व्यक्ति की मानसिक स्थिति मजबूत होती है और उसके आत्मविश्वास में वृद्धि होती है। इसे प्रारंभ करने से पहले अच्छा होता है कि व्यक्ति इसके महत्व को समझ ले ताकि वे इसे ध्यानपूर्वक पढ़ सके और उसके आध्यात्मिक लाभ को प्राप्त कर सके। यह स्तोत्र भक्ति और ध्यान की दिशा में व्यक्ति की मदद करता है और उसे आध्यात्मिक उन्नति की दिशा में आगे बढ़ने में सहायक हो सकता है।

॥ लघुन्यासः ॥

ॐ अथात्मान शिवात्मानग् श्रीरुद्ररूपं ध्यायेत् ॥
शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं
सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥ कमण्डल्वक्षसूत्राणां
धारिणं शूलपाणिनम् । ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम् ॥
वृषस्कन्धसमारूढम् उमादेहार्धधारिणम् । अमृतेनाप्लुतं शान्तं
दिव्यभोगसमन्वितम् ॥ दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् । नित्यं
च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥ सर्वव्यापिनमीशानं रुद्रं
वैविश्वरूपिणम् । एवं ध्यात्वा द्विजसम्यक् ततोयजनमारभेत् ॥

ॐ प्रजननेब्रह्मा तिष्ठतु। पादयोर्विष्णुस्तिष्ठतु।
हस्तयोर्हरस्तिष्ठतु। बाह्वोरिन्द्रस्तिष्ठतु। जठरेऽग्निस्तिष्ठतु।
हृदयेशिवस्तिष्ठतु। कण्ठेवसवस्तिष्ठन्तु। वक्त्रे सरस्वती
तिष्ठतु। नासिकयोर्वायुस्तिष्ठतु। नयनयोश्चन्द्रादित्यौ
तिष्ठेताम् । कर्णयोरश्विनौतिष्ठेताम् । ललाटेरुद्रास्तिष्ठन्तु।
मूर्ध्न्यादित्यास्तिष्ठन्तु। शिरसि महादेवस्तिष्ठतु। शिखायां
वामदेवस्तिष्ठतु। पृष्ठेपिनाकी तिष्ठतु। पुरतः शूली तिष्ठतु।
पार्श्वयोः शिवाशङ्करौतिष्ठेताम् । सर्वतोवायुस्तिष्ठतु। ततोबहिः
सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु। सर्वेष्वङ्गेषुसर्वा देवता
यथास्थानं तिष्ठन्तु। मा रक्षन्तु। सर्वान् महाजनान् रक्षन्तु॥

ॐ अग्निर्मे वाचि श्रितः । वाग्धृदये। हृदयं मयि ।
अहममृते। अमृतं ब्रह्मणि । वायुर्मे प्राणेश्रितः ।
प्राणोहृदये। हृदयं मयि । अहममृते। अमृतं

ब्रह्मणि । सूर्यो मेचक्षुषि श्रितः । चक्षुर्हृदये।
हृदयं मयि । अहममृते। अमृतं ब्रह्मणि ।
चन्द्रमा मेमनसि श्रितः । मनोहृदये। हृदयं
मयि । अहममृते। अमृतं ब्रह्मणि । दिशोमे
श्रोत्रेश्रिताः । श्रोत्र हृदये। हृदयं मयि ।
अहममृते। अमृतं ब्रह्मणि । आपोमेरेतसि श्रिताः ।
रेतोहृदये। हृदयं मयि । अहममृते। अमृतं
ब्रह्मणि । पृथिवी मेशरीरेश्रिता । शरीरग्ं हृदये।
हृदयं मयि । अहममृते। अमृतं ब्रह्मणि ।
ओषधिवनस्पतयोमेलोमसुश्रिताः । लोमानि
हृदये। हृदयं मयि । अहममृते। अमृतं
ब्रह्मणि । इन्द्रोमेबले श्रितः । बल हृदये।
हृदयं मयि । अहममृते। अमृतं ब्रह्मणि ।
पर्जन्योमेमूर्ध्नि श्रितः । मूर्धा हृदये। हृदयं
मयि । अहममृते। अमृतं ब्रह्मणि । ईशानोमेमन्यौ
श्रितः । मन्युर्हृदये। हृदयं मयि । अहममृते।
अमृतं ब्रह्मणि । आत्मा म आत्मनि श्रितः । आत्मा
हृदये। हृदयं मयि । अहममृते। अमृतं
ब्रह्मणि । पुनर्म आत्मा पुनरायुरागात् । पुनः प्राणः
पुनराकूतमागात् । वैश्वानरोरश्मिभिर्वावृधानः ।
अन्तस्तिष्ठत्वमृतस्य गोपाः ॥

अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः, अनुष्टुप् छन्दः,
सङ्कर्षणमूर्तिस्वरूपोयोऽसावादित्यः परमपुरुषः स एष रुद्रोदेवता ।
नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् ।
श्री साम्बसदाशिव प्रसाद सिद्ध्यर्थे जपेविनियोगः ॥

ॐ अग्निहोत्रात्मनेअङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मनेतर्जनीभ्यां नमः ।
चातुर्मास्यात्मनेमध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मनेअनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मनेकनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मनेकरतलकरपृष्ठाभ्यां नमः ॥

अग्निहोत्रात्मनेहृदयाय नमः ।
दर्शपूर्णमासात्मनेशिरसेस्वाहा ।
चातुर्मास्यात्मनेशिखायैवषट् ।
निरूढपशुबन्धात्मनेकवचाय हुम् ।
ज्योतिष्टोमात्मनेनेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मनेअस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

॥ ध्यानम् ॥
आपाताळनभः स्थलान्तभुवनब्रह्माण्डमाविस्फुर
ज्ज्योतिः स्फाटिकलिङ्गमौळिविलसत्पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सितसिद्धयेध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥
ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठेकालाः कपर्दाकलित शशिकलाश्चण्डकोदण्ड हस्ताः ॥
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदा
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तुसौख्यम् ॥
श्री गुरुभ्योनमः । हरिः ओ३म् ।
ॐ गणानां त्वा गणपति हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत
आ नः श‍ृण्वन्नूतिभिस्सीद सादनम् ॥

॥ ॐ श्री महागणपतये नमः ॥
ॐ शं च मेमयश्च मेप्रियं च मेऽनुकामश्च मे
कामश्च मेसौमनसश्च मेभद्रं च मेश्रेयश्च मे
वस्यश्च मेयशश्च मेभगश्च मेद्रविणं च मे
यन्ता च मेधर्ता च मेक्षेमश्च मेधृतिश्च मे
विश्वं च मेमहश्च मेसंविच्च मेज्ञात्रं च मे
सूश्च मेप्रसूश्च मेसीरं च मेलयश्च म ऋतं च
मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मेजीवातुश्च मे
दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मेसुगं च
मेशयनं च मेसूषा च मेसुदिनं च मे॥
ॐ शान्तिः शान्तिः शान्तिः ॥

॥ शिवोपासन मन्त्राः ॥
निधनपतयेनमः । निधनपतान्तिकाय नमः । ऊर्ध्वाय
नमः । ऊर्ध्वलिङ्गाय नमः । हिरण्याय नमः । हिरण्यलिङ्गाय
नमः । सुवर्णाय नमः । सुर्वर्णलिङ्गाय नमः । दिव्याय नमः ।
दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय नमः । शर्वाय
नमः । शर्वलिङ्गाय नमः । शिवाय नमः । शिवलिङ्गाय नमः ।
ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय
नमः । परमाय नमः । परमलिङ्गाय नमः । एतथ्सोमस्य सूर्यस्य
सर्वलिङ्गग्ग् स्थापयति पाणिमन्त्रं पवित्रम् ॥
सद्योजातं प्रपद्यामि सद्योजाताय वैनमोनमः ।
भवेभवेनातिभवेभवस्व माम् । भवोद्भवाय
नमः ॥ वामदेवाय नमोज्येष्ठाय नमश्श्रेष्ठाय
नमोरुद्राय नमः कालाय नमः कलविकरणाय नमो
बलविकरणाय नमोबलाय नमोबलप्रमथनाय
नमस्सर्वभूतदमनाय नमोमनोन्मनाय नमः ॥
अघोरेभ्योऽथ घोरेभ्योघोरघोरतरेभ्यः । सर्वेभ्यः
सर्वशर्वेभ्योनमस्तेअस्तुरुद्ररूपेभ्यः ॥ तत्पुरुषाय
विद्महेमहादेवाय धीमहि । तन्नोरुद्रः प्रचोदयात् ॥
ईशानस्सर्वविद्यानामीश्वरस्सर्व भूतानां
ब्रह्माऽधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवोमेअस्तु
सदाशिवोम् ॥

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय
उमापतये पशुपतये नमो नमः । ऋत सत्यं परं ब्रह्म
पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं

विश्वरूपाय वै नमो नमः ॥ सर्वो वैरुद्रस्तस्मै
रुद्राय नमो अस्तु। पुरुषो वै रुद्रस्सन्महो नमो नमः ।
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं
च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु।
कद्रुद्राय प्रचेतसेमीढुष्टमाय तव्यसे। वोचेम
शन्तम हृदे। सर्वो ह्येष रुद्रस्तस्मैरुद्राय
नमो अस्तु॥

ध्यानम्
आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर
ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्जेच्छिवम् ॥

ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठेकालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तुसौख्यम् ॥

यह भी पढें – हरितालिका तीज व्रत कथा

॥ श्री रुद्रप्रश्नः नमकम् ॥
॥ अथ श्रीरुद्रप्रश्नः ॥
श्री गुरुभ्योनमः । हरिः ओ३म् ।
ॐ गणानां त्वा गणपति हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः श‍ृण्वन्नूतिभिस्सीद सादनम् ॥

॥ ॐ नमोभगवतेरुद्राय ॥
नमस्ते रुद्रमन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥ ११॥

यात इषुः शिवतमा शिवं बभूव ते धनुः ।
शिवा शरव्या या तव तया नोरुद्र मृडय ॥ १२॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ १३॥

यामिषुं गिरिशंत हस्तेबिभर्ष्यस्तवे।
शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥ १४॥

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १५॥

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।
अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ १६॥

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।
ये चेमारुद्रा अभितो दिक्षु।
श्रिताः सहस्रशोऽवैषाहेड ईमहे॥ १७॥

असौ योऽवसर्पति नीलग्री वोविलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टोमृडयाति नः ॥ १८॥

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥ १९॥

प्रमुंच धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ।
याश्च तेहस्त इषवः परा ता भगवोवप ॥ ११०॥

अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १११॥

विज्यं धनुः कपर्दिनोविशल्योबाणवा उत ।
अनेशन्नस्येषव आभुरस्य निषंगथिः ॥ ११२॥

या तेहेतिर्मीढुष्टम हस्तेबभूव तेधनुः ।
तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिब्भुज ॥ ११३॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे।
उभाभ्यामुत तेनमोबाहुभ्यां तव धन्वने॥ ११४॥

परि तेधन्वनोहेतिरस्मान्व्रुणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ ११५॥

नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय
त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय var त्रिकालाग्नि
नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः ॥ २०॥

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो
वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः
सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो
बभ्लुशाय विव्याधिनेऽन्नानां पतयेनमोनमो
हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो
भवस्य हेत्यै जगतां पतये नमो नमो
रुद्रायातताविने क्षेत्राणां पतये नमो नमः
सूतायाहन्त्याय वनानां पतये नमो नमः ॥ २१॥

रोहिताय स्थपतये वृक्षाणां पतये नमो नमो
मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो
भुवंतये वारिवस्कृतायौषधीनां पतये नमो नम
उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः
कृत्स्नवीताय धावते सत्वनां पतये नमः ॥ २२॥

नमः सहमानाय निव्याधिन आव्याधिनीनां
पतये नमो नमः
ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो
निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो
वञ्चते परिवञ्चतेस्तायूनां पतये नमो नमो
निचेरवे परिचरायारण्यानां पतये नमो नमः
सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो नमो
ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम
उष्णीषिणेगिरिचराय कुलुञ्चानां पतये नमो नमः ॥ ३१॥

इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम
आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम
आयच्छद्भ्यो विसृजद्भ्यश्च वोन मो नमो
ऽस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम
आसीनेभ्यः शयानेभ्यश्च वो नमो नमः

स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम
स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः
सभाभ्यः सभापतिभ्यश्च वो नमो नमो
अश्वेभ्योऽश्वपतिभ्यश्च वोनमः ॥ ३२॥

नम आव्यधिनीभ्योविविध्यन्तीभ्यश्च वो नमो नम
उगणाभ्यस्तृहतीभ्यश्च वो नमो नमो
गृत्सेभ्यो ग्रुत्सपतिभ्यश्च वो नमो नमो
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो
गणेभ्यो गणपतिभ्यश्च वो नमो नमो
विरूपेभ्यो विश्वरूपेभ्यश्च वोनमोनमो
महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो
रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यः ॥ ४१॥

रथ पतिभ्यश्च वो नमो नमः
सेनाभ्यः सेननिभ्यश्च वो नमो नमः
क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो नम
स्तक्षभ्योरथकारेभ्यश्च वो नमो नमः
कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः
पुञ्जिष्टेभ्योनिषादेभ्यश्च वो नमो नम
इषुकृद्भ्योधन्वकृद्भ्यश्च वो नमो नमो
म्रुगयुभ्यः श्वनिभ्यश्च वो नमो नमः
श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ ४२॥

नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतयेच
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिनेच व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वनेच
नमो गिरिशाय च शिपिविष्टाय च
नमोमीढुष्टमाय चेषुमतेच नमोह्रस्वाय च वामनाय च
नमोबृहतेच वर्षीयसेच नमोवृद्धाय च संवृद्ध्वनेच ॥ ५१॥

नमोअग्रियाय च प्रथमाय च नम आशवेचाजिराय च
नम्ः शीघ्रियाय च शीभ्याय च
नम् ऊर्म्याय चावस्वन्याय च
नमः स्रोतस्याय च द्वीप्याय च ॥ ५२॥

नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमोमध्यमाय चापगल्भाय च
नमोजघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमोयाम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च
नमः श्लोक्याय चावसान्याय च
नमोवन्याय च कक्ष्याय च
नमः श्रवाय च प्रतिश्रवाय च ॥ ६१॥

नम आशुषेणाय चाशुरथाय च नमः
शूराय चावभिन्दतेच नमोवर्मिणेच वरूथिनेच
नमो बिल्मिनेच कवचिनेच नमः श्रुताय च श्रुतसेनाय च ॥ ६२॥

नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवेच प्रमृशाय च
नमोदूताय च प्रहिताय च नमोनिषङ्गिणेचेषुधिमतेच
नमस्तीक्ष्णेषवेचायुधिनेच नमः स्वायुधाय च सुधन्वनेच
नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च

नमः सूद्याय च सरस्याय च नमोनाद्याय च वैशन्ताय च ॥ ७१॥
नमः कूप्याय चावट्याय च नमोवर्ष्याय चावर्ष्याय च
नमोमेघ्याय च विद्युत्याय च नम ईघ्रियाय चातप्याय च
नमोवात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॥ ७२॥

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतयेच नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च

नमो हन्त्रेच हनीयसेच नमोवृक्षेभ्योहरिकेशेभ्यो
नमस्ताराय नमः शंभवेच मयोभवेच
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च ॥ ८१॥

नमस्तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चालाद्याय च
नमः शष्प्याय च फेन्याय च नमः
सिकत्याय च प्रवाह्याय च ॥ ८२॥

नम इरिण्याय च प्रपथ्याय च
नमः किशिलाय च क्षयणाय च
नमः कपर्दिनेच पुलस्तयेच
नमो गोष्ठ्याय च गृह्याय च
नमस्तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो हृदय्याय च निवेष्प्याय च
नमः पासव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च ॥ ९१॥

नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमो ऽपगुरमाणाय चाभिघ्नतेच
नम आख्खिदतेच प्रख्खिदतेच
नमो वः किरिकेभ्योदेवाना हृदयेभ्यो
नमो विक्षीणकेभ्योनमोविचिन्वत्केभ्यो
नम आनिर्हतेभ्योनम आमीवत्केभ्यः ॥ ९२॥

द्रापेअन्धसस्पतेदरिद्रन्नीललोहित ।
एषां पुरुषाणामेषां पशूनां मा भेर्मारोमोएषां
किंचनाममत् ॥ १०१॥

या तेरुद्र शिवा तनूः शिवा विश्वाह भेषजी ।
शिवा रुद्रस्य भेषजी तया नोमृड जीवसे॥ १०२॥

इमारुद्राय तवसेकपर्दिनेक्षयद्वीराय प्रभरामहेमतिम् ।
यथा नः शमसद्द्विपदेचतुष्पदेविश्वं पुष्टं ग्रामे
आस्मिन्ननातुरम् ॥ १०३॥

मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते।
यच्छं च योश्च मनुरायजेपिता तदश्याम तव रुद्र प्रणीतौ॥ १०४॥

मा नो महान्तमुत मा नोअर्भकं
मा न उक्षन्तमुत मा न उक्षितम् ।
मा नो वधीः पितरं मोत मातरं प्रिया मा
नस्तनुवो रुद्र रीरिषः ॥ १०५॥

मानस्तोके तनयेमा न आयुषि मा नोगोषु
मा नोअश्वेषुरीरिषः ।
वीरान्मा नोरुद्र भामितोऽवधीर्हविष्मन्तो
नमसा विधेम ते॥ १०६॥

आरात्तेगोघ्न उत्त पूरुषघ्नेक्षयद्वीराय
सुम्नमस्मेतेअस्तु।
रक्षा च नोअधि च देव ब्रूह्यथा च नः
शर्म यच्छ द्विबर्हाः ॥ १०७॥

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीममुपहत्नुमुग्रम् ।
म्रुडा जरित्रेरुद्र स्तवानोअन्यन्ते
अस्मन्निवपन्तुसेनाः ॥ १०८॥
परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय
तनयाय म्रुडय ॥ १०९॥

मीढुष्टम शिवतम शिवोनः सुमना भव ।
परमेव्रुक्ष आयुधं निधाय कृत्तिं वसान
आचर पिनाकं विभ्रदागहि ॥ १०१०॥

विकिरिद विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्रहेतयोऽन्यमस्मन्निवपन्तु ताः ॥ १०११॥

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानोभगवः पराचीना मुखा कृधि ॥ १०१२॥
सहस्राणि सहस्रशोयेरुद्रा अधि भूम्याम् ।
तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ १११॥
अस्मिन् महत्यर्णवेऽन्तरिक्षेभवा अधि ॥ ११२॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥ ११३॥
नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः ॥ ११४॥
ये वृक्षे षुसस्पिंजरा नीलग्रीवा विलोहिताः ॥ ११५॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥ ११६॥
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतोजनान् ॥ ११७॥
ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ ११८॥
ये तीर्थानि प्रचरन्ति सृकावन्तोनिषङ्गिणः ॥ ११९॥
य एतावन्तश्च भूयासश्च दिशोरुद्रा वितस्थिरे
तेषासहस्रयोजने। अवधन्वानि तन्मसि ॥ १११०॥

नमो रुद्रेभ्यो ये पृथिव्यां ये। अन्तरिक्षे
ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नोद्वेष्टि
तं वो जम्भे दधामि ॥ ११११॥

त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ १॥

यो रुद्रोअग्नौयोअप्सुय ओषधीषु।
यो रुद्रोविश्वा भुवनाऽऽविवेश

तस्मै रुद्राय नमोअस्तु॥ २॥
तमुष्टुहि यः स्विषुः सुधन्वा योविश्वस्य क्षयति भेषजस्य ।
यक्ष्वामहेसौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥ ३॥

अयं मे हस्तोभगवानयं मेभगवत्तरः ।
अयं मे विश्वभेषजोऽय शिवाभिमर्शनः ॥ ४॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे।
तान् यज्ञस्य मायया सर्वानव यजामहे।
मृत्यवे स्वाहा मृत्यवे स्वाहा ॥ ५॥

ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ।
प्राणानां ग्रन्थिरसि रुद्रोमा विशान्तकः ।
तेनान्नेनाप्यायस्व ॥ ६॥
नमोरुद्राय विष्णवेमृत्युर्मे पाहि

॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति श्रीकृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डेपंचमः प्रपाठकः ॥

॥ चमकप्रश्नः ॥
ॐ अग्ना विष्णू सजोषसेमा वर्धन्तुवां गिरः ।
द्युम्नैर्वाजेभिरागतम् । वाजश्च मेप्रसवश्च मे
प्रयतिश्च मेप्रसितिश्च मेधीतिश्च मेक्रतुश्च
मेस्वरश्च मेश्लोकश्च मेश्रावश्च मेश्रुतिश्च
मेज्योतिश्च मेसुवश्च मेप्राणश्च मेऽपानश्च मे
व्यानश्च मेऽसुश्च मेचित्तं च म आधीतं च मे
वाक्च मेमनश्च मेचक्षुश्च मेश्रोत्रं च मे
दक्षश्च मे बलं च म ओजश्च मेसहश्च म
आयुश्च मेजरा च म आत्मा च मे तनूश्च मेशर्म
च मे वर्म च मेऽङ्गानि च मेऽस्थानि च मेपरू षि
च मे शरीराणि च मे॥ १॥

ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च
मेऽमश्च मेऽम्भश्च मेजेमा च मे महिमा च मे
वरिमा च मे प्रथिमा च मेवर्ष्मा च मेद्राघुया च मे
वृद्धं च मेवृद्धिश्च मेसत्यं च मेश्रद्धा च

मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे
क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे
सूक्तं च मे सुकृतं च मेवित्तं च मे वेद्यं च मे
भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च म
ऋद्धं च म ऋद्धिश्च मेकॢप्तं च मेकॢप्तिश्च
मे मतिश्च मे सुमतिश्च मे॥ २॥

शं च मे मयश्च मेप्रियं च मे ऽनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे
सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च
मेऽमृतं च मे ऽयक्ष्मं च मेऽनामयच्च मे जीवातुश् च
मेदीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मेसुगं च
मेशयनं च मेसूषा च मेसुदिनं च मे॥ ३॥

ऊर्क्च मेसूनृता च मेपयश्च मे रसश्च मे
घृतं च मेमधुच मेसग्धिश्च मेसपीतिश्च मे
कृषिश्च मेवृष्टिश्च मेजैत्रं च म औद्भिद्यं
च मेरयिश्च मेरायश्च मेपुष्टं च मेपुष्टिश्च मे
विभुच मेप्रभुच मेबहु च मेभूयश्च मेपूर्णं
च मेपूर्णतरं च मेऽक्षितिश्च मेकूयवाश्च मेऽन्नं
च मेऽक्षुच्च मेव्रीहयश्च मेयवाश्च मे माषाश्च
मेतिलाश्च मेमुद्गाश्च मेखल्वाश्च मे गोधूमाश्च मे
मसुराश्च मेप्रियंगवश्च मेऽणवश्च मे श्यामकाश्च
मे नीवाराश्च मे॥ ४॥

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे
सिकताश्च मे वनस्पतयश्च मेहिरण्यं च मेऽयश्च
मेसीसं च मेत्रपुश्च मेश्यामं च मेलोहं च
मेऽग्निश्च म आपश्च मेवीरुधश्च म ओषधयश्च
मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे ग्राम्याश्च
मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे

वित्तिश्च मे भूतं च मे भूतिश्च मे वसुच मे
वसतिश्च मेकर्म च मेशक्तिश्च मेऽर्थश्च म
एमश्च म इतिश्च मेगतिश्च मे॥ ५॥

अग्निश्च म इन्द्रश्च मेसोमश्च म इन्द्रश्च मेसविता
च म इन्द्रश्च मेसरस्वती च म इन्द्रश्च मेपूषा च
म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मेमित्रश्च
म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मेत्वष्टा च
म इन्द्रश्च मे धाता च म इन्द्रश्च मेविष्णुश्च म
इन्द्रश्च मेऽश्विनौच म इन्द्रश्च मेमरुतश्च म
इन्द्रश्च मे विश्वेच मेदेवा इन्द्रश्च मेपृथिवी च
म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मेद्यौश्च
म इन्द्रश्च मे दिशश्च म इन्द्रश्च मेमूर्धा च म
इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे॥ ६॥

अ शुश्च मेरश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च
म उपा शुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च
मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे
शुक्रश्च मे मन्थी च म आग्रयणश्च मेवैश्वदेवश्च
मेध्रुवश्च मेवैश्वानरश्च म ऋतुग्रहाश्च
मेऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च
मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च
मेसावित्रश्च मेसारस्वतश्च मे पौष्णश्च मे
पात्नीवतश्च मेहारियोजनश्च मे॥ ७॥

इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे
स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च
म उपरवाश्च मेऽधिषवणेच मेद्रोणकलशश्च
मेवायव्यानि च मेपूतभृच्च म आधवनीयश्च म
आग्नीध्रं च मेहविर्धानं च मेगृहाश्च मेसदश्च
मेपुरोडाशाश्च मेपचताश्च मेऽवभृथश्च मे
स्वगाकारश्च मे॥ ८॥

अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे
प्राणश्च मेऽश्वमेधश्च मेपृथिवी च मेऽदितिश्च मे
दितिश्च मेद्यौश्च मेशक्क्वरीरङ्गुलयो दिशश्च
मेयज्ञेन कल्पन्तामृक्च मेसाम च मेस्तोमश्च मे
यजुश्च मेदीक्षा च मेतपश्च म ऋतुश्च मेव्रतं
च मेऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन
कल्पेताम् ॥ ९॥

गर्भाश्च मे वत्साश्च मे त्र्यविश्च मे त्र्यवी च मे
दित्यवाट् च मेदित्यौही च मेपञ्चाविश्च मेपञ्चावी
च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे
तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म उक्षा च
मेवशा च म ऋषभश्च मेवेहच्च मेऽनड्वाञ्च
मे धेनुश्च म आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन
कल्पतामपानो यज्ञेन कल्पतां व्यानोय ज्ञेन कल्पतां
चक्षुर्यज्ञेन कल्पताग् श्रोत्रं यज्ञेन कल्पतां मनो
यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां
यज्ञो यज्ञेन कल्पताम् ॥ १०॥

एका च मेतिस्रश्च मेपञ्च च मेसप्त च मेनव
च म एकादश च मे त्रयोदश च मे पञ्चदश च
मे सप्तदश च मे नवदश च म एकवि शतिश्च
मे त्रयोवि शतिश्च मे पञ्चवि शतिश्च
मे सप्तवि शतिश्च मे नववि शतिश्च
म एकत्रि शच्च मे त्रयस्त्रि शच्च मे
चतस्रश्च मेऽष्टौच मे द्वादश च मे षोडश
च मेवि शतिश्च मे चतुर्वि शतिश्च
मेऽष्टावि शतिश्च मेद्वात्रि शच्च मे
षट्त्रि शच्च मे चत्वरि शच्च मे
चतुश्चत्वारि शच्च मेऽष्टाचत्वारि शच्च मे
वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च
मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च
भुवनश्चाधिपतिश्च ॥ ११॥

ॐ इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि
शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा मा
हिसीर्मधुमनिष्येमधुजनिष्येमधुवक्ष्यामि
मधुवदिष्यामि मधुमतीं देवेभ्योवाचमुद्यास
शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तुशोभायै
पितरोऽनुमदन्तु॥

ॐ शान्तिः शान्तिः शान्तिः ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे सप्तमः प्रपाठकः ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर श्रीरुद्रप्रश्न लघुन्यास (Rudram) स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह स्तोत्र रोमन में–

Read Shri Rudram Lyrics

॥ laghunyāsaḥ ॥
oṃ athātmāna śivātmānag śrīrudrarūpaṃ dhyāyet ॥
śuddhasphaṭikasaṃkāśaṃ trinetraṃ pañcavaktrakam । gaṅgādharaṃ daśabhujaṃ
sarvābharaṇabhūṣitam ॥ nīlagrīvaṃ śaśāṅkāṅkaṃ nāgayajñopavītinam ।
vyāghracarmottarīyaṃ ca vareṇyamabhayapradam ॥ kamaṇḍalvakṣasūtrāṇāṃ
dhāriṇaṃ śūlapāṇinam । jvalantaṃ piṅgalajaṭāśikhāmudyotadhāriṇam ॥
vṛṣaskandhasamārūḍham umādehārdhadhāriṇam । amṛtenāplutaṃ śāntaṃ
divyabhogasamanvitam ॥ digdevatāsamāyuktaṃ surāsuranamaskṛtam । nityaṃ
ca śāśvataṃ śuddhaṃ dhruvamakṣaramavyayam ॥ sarvavyāpinamīśānaṃ rudraṃ
vaiviśvarūpiṇam । evaṃ dhyātvā dvijasamyak tatoyajanamārabhet ॥

oṃ prajananebrahmā tiṣṭhatu। pādayorviṣṇustiṣṭhatu।
hastayorharastiṣṭhatu। bāhvorindrastiṣṭhatu। jaṭhare’gnistiṣṭhatu।
hṛdayeśivastiṣṭhatu। kaṇṭhevasavastiṣṭhantu। vaktre sarasvatī
tiṣṭhatu। nāsikayorvāyustiṣṭhatu। nayanayoścandrādityau
tiṣṭhetām । karṇayoraśvinautiṣṭhetām । lalāṭerudrāstiṣṭhantu।
mūrdhnyādityāstiṣṭhantu। śirasi mahādevastiṣṭhatu। śikhāyāṃ
vāmadevastiṣṭhatu। pṛṣṭhepinākī tiṣṭhatu। purataḥ śūlī tiṣṭhatu।
pārśvayoḥ śivāśaṅkarautiṣṭhetām । sarvatovāyustiṣṭhatu। tatobahiḥ
sarvato’gnirjvālāmālā parivṛtastiṣṭhatu। sarveṣvaṅgeṣusarvā devatā
yathāsthānaṃ tiṣṭhantu। mā rakṣantu। sarvān mahājanān rakṣantu॥

oṃ agnirme vāci śritaḥ । vāgdhṛdaye। hṛdayaṃ mayi ।
ahamamṛte। amṛtaṃ brahmaṇi । vāyurme prāṇeśritaḥ ।
prāṇohṛdaye। hṛdayaṃ mayi । ahamamṛte। amṛtaṃ

brahmaṇi । sūryo mecakṣuṣi śritaḥ । cakṣurhṛdaye।
hṛdayaṃ mayi । ahamamṛte। amṛtaṃ brahmaṇi ।
candramā memanasi śritaḥ । manohṛdaye। hṛdayaṃ
mayi । ahamamṛte। amṛtaṃ brahmaṇi । diśome
śrotreśritāḥ । śrotra hṛdaye। hṛdayaṃ mayi ।
ahamamṛte। amṛtaṃ brahmaṇi । āpomeretasi śritāḥ ।
retohṛdaye। hṛdayaṃ mayi । ahamamṛte। amṛtaṃ
brahmaṇi । pṛthivī meśarīreśritā । śarīragṃ hṛdaye।
hṛdayaṃ mayi । ahamamṛte। amṛtaṃ brahmaṇi ।
oṣadhivanaspatayomelomasuśritāḥ । lomāni
hṛdaye। hṛdayaṃ mayi । ahamamṛte। amṛtaṃ
brahmaṇi । indromebale śritaḥ । bala hṛdaye।
hṛdayaṃ mayi । ahamamṛte। amṛtaṃ brahmaṇi ।
parjanyomemūrdhni śritaḥ । mūrdhā hṛdaye। hṛdayaṃ
mayi । ahamamṛte। amṛtaṃ brahmaṇi । īśānomemanyau
śritaḥ । manyurhṛdaye। hṛdayaṃ mayi । ahamamṛte।
amṛtaṃ brahmaṇi । ātmā ma ātmani śritaḥ । ātmā
hṛdaye। hṛdayaṃ mayi । ahamamṛte। amṛtaṃ
brahmaṇi । punarma ātmā punarāyurāgāt । punaḥ prāṇaḥ
punarākūtamāgāt । vaiśvānaroraśmibhirvāvṛdhānaḥ ।
antastiṣṭhatvamṛtasya gopāḥ ॥

asya śrī rudrādhyāya praśna mahāmantrasya aghora ṛṣiḥ, anuṣṭup chandaḥ,
saṅkarṣaṇamūrtisvarūpoyo’sāvādityaḥ paramapuruṣaḥ sa eṣa rudrodevatā ।
namaḥ śivāyeti bījam । śivatarāyeti śaktiḥ । mahādevāyeti kīlakam ।
śrī sāmbasadāśiva prasāda siddhyarthe japeviniyogaḥ ॥

oṃ agnihotrātmaneaṅguṣṭhābhyāṃ namaḥ ।
darśapūrṇamāsātmanetarjanībhyāṃ namaḥ ।
cāturmāsyātmanemadhyamābhyāṃ namaḥ ।
nirūḍhapaśubandhātmaneanāmikābhyāṃ namaḥ ।
jyotiṣṭomātmanekaniṣṭhikābhyāṃ namaḥ ।
sarvakratvātmanekaratalakarapṛṣṭhābhyāṃ namaḥ ॥

agnihotrātmanehṛdayāya namaḥ ।
darśapūrṇamāsātmaneśirasesvāhā ।
cāturmāsyātmaneśikhāyaivaṣaṭ ।
nirūḍhapaśubandhātmanekavacāya hum ।
jyotiṣṭomātmanenetratrayāya vauṣaṭ ।
sarvakratvātmaneastrāya phaṭ ।
bhūrbhuvassuvaromiti digbandhaḥ ॥

॥ dhyānam ॥
āpātāḻanabhaḥ sthalāntabhuvanabrahmāṇḍamāvisphura
jjyotiḥ sphāṭikaliṅgamauḻivilasatpūrṇenduvāntāmṛtaiḥ ।
astokāplutamekamīśamaniśaṃ rudrānuvākāñjapan
dhyāyedīpsitasiddhayedhruvapadaṃ vipro’bhiṣiñcecchivam ॥
brahmāṇḍavyāptadehā bhasitahimarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhekālāḥ kapardākalita śaśikalāścaṇḍakodaṇḍa hastāḥ ॥
tryakṣā rudrākṣamālāḥ prakaṭitavibhavāḥ śāmbhavā mūrtibhedā
rudrāḥ śrīrudrasūktaprakaṭitavibhavā naḥ prayacchantusaukhyam ॥
śrī gurubhyonamaḥ । hariḥ o3m ।
oṃ gaṇānāṃ tvā gaṇapati havāmahe
kaviṃ kavīnāmupamaśravastamam ।
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata
ā naḥ śa‍ṛṇvannūtibhissīda sādanam ॥

॥ oṃ śrī mahāgaṇapataye namaḥ ॥
oṃ śaṃ ca memayaśca mepriyaṃ ca me’nukāmaśca me
kāmaśca mesaumanasaśca mebhadraṃ ca meśreyaśca me
vasyaśca meyaśaśca mebhagaśca medraviṇaṃ ca me
yantā ca medhartā ca mekṣemaśca medhṛtiśca me
viśvaṃ ca memahaśca mesaṃvicca mejñātraṃ ca me
sūśca meprasūśca mesīraṃ ca melayaśca ma ṛtaṃ ca
me’mṛtaṃ ca me’yakṣmaṃ ca me’nāmayacca mejīvātuśca me
dīrghāyutvaṃ ca me’namitraṃ ca me’bhayaṃ ca mesugaṃ ca
meśayanaṃ ca mesūṣā ca mesudinaṃ ca me॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥

॥ śivopāsana mantrāḥ ॥
nidhanapatayenamaḥ । nidhanapatāntikāya namaḥ । ūrdhvāya
namaḥ । ūrdhvaliṅgāya namaḥ । hiraṇyāya namaḥ । hiraṇyaliṅgāya
namaḥ । suvarṇāya namaḥ । survarṇaliṅgāya namaḥ । divyāya namaḥ ।
divyaliṅgāya namaḥ । bhavāya namaḥ । bhavaliṅgāya namaḥ । śarvāya
namaḥ । śarvaliṅgāya namaḥ । śivāya namaḥ । śivaliṅgāya namaḥ ।
jvalāya namaḥ । jvalaliṅgāya namaḥ । ātmāya namaḥ । ātmaliṅgāya
namaḥ । paramāya namaḥ । paramaliṅgāya namaḥ । etathsomasya sūryasya
sarvaliṅgagg sthāpayati pāṇimantraṃ pavitram ॥
sadyojātaṃ prapadyāmi sadyojātāya vainamonamaḥ ।
bhavebhavenātibhavebhavasva mām । bhavodbhavāya
namaḥ ॥ vāmadevāya namojyeṣṭhāya namaśśreṣṭhāya
namorudrāya namaḥ kālāya namaḥ kalavikaraṇāya namo
balavikaraṇāya namobalāya namobalapramathanāya
namassarvabhūtadamanāya namomanonmanāya namaḥ ॥
aghorebhyo’tha ghorebhyoghoraghoratarebhyaḥ । sarvebhyaḥ
sarvaśarvebhyonamasteasturudrarūpebhyaḥ ॥ tatpuruṣāya
vidmahemahādevāya dhīmahi । tannorudraḥ pracodayāt ॥
īśānassarvavidyānāmīśvarassarva bhūtānāṃ
brahmā’dhipatirbrahmaṇo’dhipatirbrahmā śivomeastu
sadāśivom ॥

namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye’mbikāpataya
umāpataye paśupataye namo namaḥ । ṛta satyaṃ paraṃ brahma
puruṣaṃ kṛṣṇapiṅgalam । ūrdhvaretaṃ virūpākṣaṃ

viśvarūpāya vai namo namaḥ ॥ sarvo vairudrastasmai
rudrāya namo astu। puruṣo vai rudrassanmaho namo namaḥ ।
viśvaṃ bhūtaṃ bhuvanaṃ citraṃ bahudhā jātaṃ jāyamānaṃ
ca yat । sarvo hyeṣa rudrastasmai rudrāya namo astu।
kadrudrāya pracetasemīḍhuṣṭamāya tavyase। vocema
śantama hṛde। sarvo hyeṣa rudrastasmairudrāya
namo astu॥

dhyānam
āpātālanabhaḥsthalāntabhuvanabrahmāṇḍamāvisphura
jjyotiḥ sphāṭikaliṅgamaulivilasat pūrṇenduvāntāmṛtaiḥ ।
astokāplutamekamīśamaniśaṃ rudrānuvākāñjapan
dhyāyedīpsita siddhaye’drutapadaṃ vipro’bhiṣiñjecchivam ॥

brahmāṇḍavyāptadehā bhasitahimarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhekālāḥ kapardākalita śaśikalāścaṇḍakodaṇḍahastāḥ ।
tryakṣā rudrākṣamālāḥ praṇatabhayaharāḥ śāṃbhavā mūrtibhedāḥ
rudrāḥ śrīrudrasūktaprakaṭitavibhavā naḥ prayacchantusaukhyam ॥

॥ śrī rudrapraśnaḥ namakam ॥
॥ atha śrīrudrapraśnaḥ ॥
śrī gurubhyonamaḥ । hariḥ o3m ।
oṃ gaṇānāṃ tvā gaṇapati havāmahe kaviṃ kavīnāmupamaśravastamam ।
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ā naḥ śa‍ṛṇvannūtibhissīda sādanam ॥

॥ oṃ namobhagavaterudrāya ॥
namaste rudramanyava utota iṣave namaḥ ।
namaste astu dhanvane bāhubhyāmuta te namaḥ ॥ 11॥

yāta iṣuḥ śivatamā śivaṃ babhūva te dhanuḥ ।
śivā śaravyā yā tava tayā norudra mṛḍaya ॥ 12॥

yā te rudra śivā tanūraghorā’pāpakāśinī ।
tayā nastanuvā śantamayā giriśaṃtābhicākaśīhi ॥ 13॥

yāmiṣuṃ giriśaṃta hastebibharṣyastave।
śivāṃ giritra tāṃ kuru mā hisīḥ puruṣaṃ jagat ॥ 14॥

śivena vacasā tvā giriśācchā vadāmasi ।
yathā naḥ sarvamijjagadayakṣmasumanā asat ॥ 15॥

adhyavocadadhi vaktā prathamo daivyo bhiṣak ।
ahīśca sarvāñjaṃbhayantsarvāśca yātudhānyaḥ ॥ 16॥

asau yastāmro aruṇa uta babhruḥ sumaṃgalaḥ ।
ye cemārudrā abhito dikṣu।
śritāḥ sahasraśo’vaiṣāheḍa īmahe॥ 17॥

asau yo’vasarpati nīlagrī vovilohitaḥ ।
utainaṃ gopā adṛśannadṛśannudahāryaḥ ।
utainaṃ viśvā bhūtāni sa dṛṣṭomṛḍayāti naḥ ॥ 18॥

namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe।
atho ye asya satvāno’haṃ tebhyo’karannamaḥ ॥ 19॥

pramuṃca dhanvanastvamubhayorārtniyorjyām ।
yāśca tehasta iṣavaḥ parā tā bhagavovapa ॥ 110॥

avatatya dhanustva sahasrākṣa śateṣudhe।
niśīrya śalyānāṃ mukhā śivo naḥ sumanā bhava ॥ 111॥

vijyaṃ dhanuḥ kapardinoviśalyobāṇavā uta ।
aneśannasyeṣava ābhurasya niṣaṃgathiḥ ॥ 112॥

yā tehetirmīḍhuṣṭama hastebabhūva tedhanuḥ ।
tayā’smānviśvatastvamayakṣmayā paribbhuja ॥ 113॥

namaste astvāyudhāyānātatāya dhṛṣṇave।
ubhābhyāmuta tenamobāhubhyāṃ tava dhanvane॥ 114॥

pari tedhanvanohetirasmānvruṇaktu viśvataḥ ।
atho ya iṣudhistavāre asmannidhehi tam ॥ 115॥

namaste astu bhagavan viśveśvarāya mahādevāya tryaṃbakāya
tripurāntakāya trikāgnikālāya kālāgnirudrāya var trikālāgni
nīlakaṇṭhāya mrutyuṃjayāya sarveśvarāya
sadāśivāya śrīmanmahādevāya namaḥ ॥ 20॥

namo hiraṇyabāhave senānye diśāṃ ca pataye namo namo
vṛkṣebhyo harikeśebhyaḥ paśūnāṃ pataye namo namaḥ
saspiñcarāya tviṣīmate pathīnāṃ pataye namo namo
babhluśāya vivyādhine’nnānāṃ patayenamonamo
harikeśāyopavītine puṣṭānāṃ pataye namo namo
bhavasya hetyai jagatāṃ pataye namo namo
rudrāyātatāvine kṣetrāṇāṃ pataye namo namaḥ
sūtāyāhantyāya vanānāṃ pataye namo namaḥ ॥ 21॥

rohitāya sthapataye vṛkṣāṇāṃ pataye namo namo
mantriṇe vāṇijāya kakṣāṇāṃ pataye namo namo
bhuvaṃtaye vārivaskṛtāyauṣadhīnāṃ pataye namo nama
uccairghoṣāyākrandayate pattīnāṃ pataye namo namaḥ
kṛtsnavītāya dhāvate satvanāṃ pataye namaḥ ॥ 22॥

namaḥ sahamānāya nivyādhina āvyādhinīnāṃ
pataye namo namaḥ
kakubhāya niṣaṅgiṇe stenānāṃ pataye namo namo
niṣaṅgiṇa iṣudhimate taskarāṇāṃ pataye namo namo
vañcate parivañcatestāyūnāṃ pataye namo namo
nicerave paricarāyāraṇyānāṃ pataye namo namaḥ
sṛkāvibhyo jighāsadbhyo muṣṇatāṃ pataye namo namo
‘simadbhyo naktaṃ caradbhyaḥ prakṛntānāṃ pataye namo nama
uṣṇīṣiṇegiricarāya kuluñcānāṃ pataye namo namaḥ ॥ 31॥

iṣumadbhyo dhanvāvibhyaśca vo namo nama
ātanvānebhyaḥ pratidadhānebhyaśca vo namo nama
āyacchadbhyo visṛjadbhyaśca vona mo namo
‘syadbhyo viddhyadbhyaśca vo namo nama
āsīnebhyaḥ śayānebhyaśca vo namo namaḥ

svapadbhyo jāgradbhyaśca vo namo nama
stiṣṭhadbhyo dhāvadbhyaśca vo namo namaḥ
sabhābhyaḥ sabhāpatibhyaśca vo namo namo
aśvebhyo’śvapatibhyaśca vonamaḥ ॥ 32॥

nama āvyadhinībhyovividhyantībhyaśca vo namo nama
ugaṇābhyastṛhatībhyaśca vo namo namo
gṛtsebhyo grutsapatibhyaśca vo namo namo
vrātebhyo vrātapatibhyaśca vo namo namo
gaṇebhyo gaṇapatibhyaśca vo namo namo
virūpebhyo viśvarūpebhyaśca vonamonamo
mahadbhyaḥ kṣullakebhyaśca vo namo namo
rathibhyo’rathebhyaśca vo namo namo rathebhyaḥ ॥ 41॥

ratha patibhyaśca vo namo namaḥ
senābhyaḥ senanibhyaśca vo namo namaḥ
kṣattṛbhyaḥ saṃgrahītṛbhyaśca vo namo nama
stakṣabhyorathakārebhyaśca vo namo namaḥ
kulālebhyaḥ karmārebhyaśca vo namo namaḥ
puñjiṣṭebhyoniṣādebhyaśca vo namo nama
iṣukṛdbhyodhanvakṛdbhyaśca vo namo namo
mrugayubhyaḥ śvanibhyaśca vo namo namaḥ
śvabhyaḥ śvapatibhyaśca vo namaḥ ॥ 42॥

namo bhavāya ca rudrāya ca namaḥ śarvāya ca paśupatayeca
namo nīlagrīvāya ca śitikaṇṭhāya ca
namaḥ kapardineca vyuptakeśāya ca
namaḥ sahasrākṣāya ca śatadhanvaneca
namo giriśāya ca śipiviṣṭāya ca
namomīḍhuṣṭamāya ceṣumateca namohrasvāya ca vāmanāya ca
namobṛhateca varṣīyaseca namovṛddhāya ca saṃvṛddhvaneca ॥ 51॥

namoagriyāya ca prathamāya ca nama āśavecājirāya ca
namḥ śīghriyāya ca śībhyāya ca
nam ūrmyāya cāvasvanyāya ca
namaḥ srotasyāya ca dvīpyāya ca ॥ 52॥

namo jyeṣṭhāya ca kaniṣṭhāya ca
namaḥ pūrvajāya cāparajāya ca
namomadhyamāya cāpagalbhāya ca
namojaghanyāya ca budhniyāya ca
namaḥ sobhyāya ca pratisaryāya ca
namoyāmyāya ca kṣemyāya ca
nama urvaryāya ca khalyāya ca
namaḥ ślokyāya cāvasānyāya ca
namovanyāya ca kakṣyāya ca
namaḥ śravāya ca pratiśravāya ca ॥ 61॥

nama āśuṣeṇāya cāśurathāya ca namaḥ
śūrāya cāvabhindateca namovarmiṇeca varūthineca
namo bilmineca kavacineca namaḥ śrutāya ca śrutasenāya ca ॥ 62॥

namo dundubhyāya cāhananyāya ca namo dhṛṣṇaveca pramṛśāya ca
namodūtāya ca prahitāya ca namoniṣaṅgiṇeceṣudhimateca
namastīkṣṇeṣavecāyudhineca namaḥ svāyudhāya ca sudhanvaneca
namaḥ srutyāya ca pathyāya ca namaḥ kāṭyāya ca nīpyāya ca

namaḥ sūdyāya ca sarasyāya ca namonādyāya ca vaiśantāya ca ॥ 71॥
namaḥ kūpyāya cāvaṭyāya ca namovarṣyāya cāvarṣyāya ca
namomeghyāya ca vidyutyāya ca nama īghriyāya cātapyāya ca
namovātyāya ca reṣmiyāya ca namo vāstavyāya ca vāstupāya ca ॥ 72॥

namaḥ somāya ca rudrāya ca namastāmrāya cāruṇāya ca
namaḥ śaṅgāya ca paśupatayeca nama ugrāya ca bhīmāya ca
namo agrevadhāya ca dūrevadhāya ca

namo hantreca hanīyaseca namovṛkṣebhyoharikeśebhyo
namastārāya namaḥ śaṃbhaveca mayobhaveca
namaḥ śaṃkarāya ca mayaskarāya ca
namaḥ śivāya ca śivatarāya ca ॥ 81॥

namastīrthyāya ca kūlyāya ca
namaḥ pāryāya cāvāryāya ca
namaḥ prataraṇāya cottaraṇāya ca
nama ātāryāya cālādyāya ca
namaḥ śaṣpyāya ca phenyāya ca namaḥ
sikatyāya ca pravāhyāya ca ॥ 82॥

nama iriṇyāya ca prapathyāya ca
namaḥ kiśilāya ca kṣayaṇāya ca
namaḥ kapardineca pulastayeca
namo goṣṭhyāya ca gṛhyāya ca
namastalpyāya ca gehyāya ca
namaḥ kāṭyāya ca gahvareṣṭhāya ca
namo hṛdayyāya ca niveṣpyāya ca
namaḥ pāsavyāya ca rajasyāya ca
namaḥ śuṣkyāya ca harityāya ca
namo lopyāya colapyāya ca ॥ 91॥

nama ūrvyāya ca sūrmyāya ca
namaḥ parṇyāya ca parṇaśadyāya ca
namo ‘paguramāṇāya cābhighnateca
nama ākhkhidateca prakhkhidateca
namo vaḥ kirikebhyodevānā hṛdayebhyo
namo vikṣīṇakebhyonamovicinvatkebhyo
nama ānirhatebhyonama āmīvatkebhyaḥ ॥ 92॥

drāpeandhasaspatedaridrannīlalohita ।
eṣāṃ puruṣāṇāmeṣāṃ paśūnāṃ mā bhermāromoeṣāṃ
kiṃcanāmamat ॥ 101॥

yā terudra śivā tanūḥ śivā viśvāha bheṣajī ।
śivā rudrasya bheṣajī tayā nomṛḍa jīvase॥ 102॥

imārudrāya tavasekapardinekṣayadvīrāya prabharāmahematim ।
yathā naḥ śamasaddvipadecatuṣpadeviśvaṃ puṣṭaṃ grāme
āsminnanāturam ॥ 103॥

mṛḍā no rudrotano mayaskṛdhi kṣayadvīrāya namasā vidhema te।
yacchaṃ ca yośca manurāyajepitā tadaśyāma tava rudra praṇītau॥ 104॥

mā no mahāntamuta mā noarbhakaṃ
mā na ukṣantamuta mā na ukṣitam ।
mā no vadhīḥ pitaraṃ mota mātaraṃ priyā mā
nastanuvo rudra rīriṣaḥ ॥ 105॥

mānastoke tanayemā na āyuṣi mā nogoṣu
mā noaśveṣurīriṣaḥ ।
vīrānmā norudra bhāmito’vadhīrhaviṣmanto
namasā vidhema te॥ 106॥

ārāttegoghna utta pūruṣaghnekṣayadvīrāya
sumnamasmeteastu।
rakṣā ca noadhi ca deva brūhyathā ca naḥ
śarma yaccha dvibarhāḥ ॥ 107॥

stuhi śrutaṃ gartasadaṃ yuvānaṃ mṛganna bhīmamupahatnumugram ।
mruḍā jaritrerudra stavānoanyante
asmannivapantusenāḥ ॥ 108॥
pariṇo rudrasya hetirvṛṇaktu pari tveṣasya durmatiraghāyoḥ ।
ava sthirā maghavadbhyastanuṣva mīḍhvastokāya
tanayāya mruḍaya ॥ 109॥

mīḍhuṣṭama śivatama śivonaḥ sumanā bhava ।
paramevrukṣa āyudhaṃ nidhāya kṛttiṃ vasāna
ācara pinākaṃ vibhradāgahi ॥ 1010॥

vikirida vilohita namaste astu bhagavaḥ ।
yāste sahasrahetayo’nyamasmannivapantu tāḥ ॥ 1011॥

sahasrāṇi sahasradhā bāhuvostava hetayaḥ ।
tāsāmīśānobhagavaḥ parācīnā mukhā kṛdhi ॥ 1012॥
sahasrāṇi sahasraśoyerudrā adhi bhūmyām ।
teṣāsahasrayojane’vadhanvāni tanmasi ॥ 111॥
asmin mahatyarṇave’ntarikṣebhavā adhi ॥ 112॥
nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ ॥ 113॥
nīlagrīvāḥ śitikaṇṭhā divarudrā upaśritāḥ ॥ 114॥
ye vṛkṣe ṣusaspiṃjarā nīlagrīvā vilohitāḥ ॥ 115॥
ye bhūtānāmadhipatayo viśikhāsaḥ kapardinaḥ ॥ 116॥
ye anneṣu vividhyanti pātreṣu pibatojanān ॥ 117॥
ye pathāṃ pathirakṣaya ailabṛdā yavyudhaḥ ॥ 118॥
ye tīrthāni pracaranti sṛkāvantoniṣaṅgiṇaḥ ॥ 119॥
ya etāvantaśca bhūyāsaśca diśorudrā vitasthire
teṣāsahasrayojane। avadhanvāni tanmasi ॥ 1110॥

namo rudrebhyo ye pṛthivyāṃ ye। antarikṣe
ye divi yeṣāmannaṃ vāto varṣamiṣavastebhyo daśa
prācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāstebhyo
namaste no mṛḍayantu te yaṃ dviṣmo yaśca nodveṣṭi
taṃ vo jambhe dadhāmi ॥ 1111॥

tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam ।
urvārukamiva bandhanānmṛtyormukṣīya mā’mṛtāt ॥ 1॥

yo rudroagnauyoapsuya oṣadhīṣu।
yo rudroviśvā bhuvanā”viveśa

tasmai rudrāya namoastu॥ 2॥
tamuṣṭuhi yaḥ sviṣuḥ sudhanvā yoviśvasya kṣayati bheṣajasya ।
yakṣvāmahesaumanasāya rudraṃ namobhirdevamasuraṃ duvasya ॥ 3॥

ayaṃ me hastobhagavānayaṃ mebhagavattaraḥ ।
ayaṃ me viśvabheṣajo’ya śivābhimarśanaḥ ॥ 4॥

ye te sahasramayutaṃ pāśā mṛtyo martyāya hantave।
tān yajñasya māyayā sarvānava yajāmahe।
mṛtyave svāhā mṛtyave svāhā ॥ 5॥

oṃ namo bhagavate rudrāya viṣṇave mṛtyurme pāhi ।
prāṇānāṃ granthirasi rudromā viśāntakaḥ ।
tenānnenāpyāyasva ॥ 6॥
namorudrāya viṣṇavemṛtyurme pāhi

॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ iti śrīkṛṣṇayajurvedīya taittirīya saṃhitāyāṃ caturthakāṇḍepaṃcamaḥ prapāṭhakaḥ ॥

॥ camakapraśnaḥ ॥
oṃ agnā viṣṇū sajoṣasemā vardhantuvāṃ giraḥ ।
dyumnairvājebhirāgatam । vājaśca meprasavaśca me
prayatiśca meprasitiśca medhītiśca mekratuśca
mesvaraśca meślokaśca meśrāvaśca meśrutiśca
mejyotiśca mesuvaśca meprāṇaśca me’pānaśca me
vyānaśca me’suśca mecittaṃ ca ma ādhītaṃ ca me
vākca memanaśca mecakṣuśca meśrotraṃ ca me
dakṣaśca me balaṃ ca ma ojaśca mesahaśca ma
āyuśca mejarā ca ma ātmā ca me tanūśca meśarma
ca me varma ca me’ṅgāni ca me’sthāni ca meparū ṣi
ca me śarīrāṇi ca me॥ 1॥

jyaiṣṭhyaṃ ca ma ādhipatyaṃ ca me manyuśca me bhāmaśca
me’maśca me’mbhaśca mejemā ca me mahimā ca me
varimā ca me prathimā ca mevarṣmā ca medrāghuyā ca me
vṛddhaṃ ca mevṛddhiśca mesatyaṃ ca meśraddhā ca

me jagacca me dhanaṃ ca me vaśaśca me tviṣiśca me
krīḍā ca me modaśca me jātaṃ ca me janiṣyamāṇaṃ ca me
sūktaṃ ca me sukṛtaṃ ca mevittaṃ ca me vedyaṃ ca me
bhūtaṃ ca me bhaviṣyacca me sugaṃ ca me supathaṃ ca ma
ṛddhaṃ ca ma ṛddhiśca mekḷptaṃ ca mekḷptiśca
me matiśca me sumatiśca me॥ 2॥

śaṃ ca me mayaśca mepriyaṃ ca me ‘nukāmaśca me
kāmaśca me saumanasaśca me bhadraṃ ca me śreyaśca me
vasyaśca me yaśaśca me bhagaśca me draviṇaṃ ca me
yantā ca me dhartā ca me kṣemaśca me dhṛtiśca me
viśvaṃ ca me mahaśca me saṃvicca me jñātraṃ ca me
sūśca me prasūśca me sīraṃ ca me layaśca ma ṛtaṃ ca
me’mṛtaṃ ca me ‘yakṣmaṃ ca me’nāmayacca me jīvātuś ca
medīrghāyutvaṃ ca me’namitraṃ ca me’bhayaṃ ca mesugaṃ ca
meśayanaṃ ca mesūṣā ca mesudinaṃ ca me॥ 3॥

ūrkca mesūnṛtā ca mepayaśca me rasaśca me
ghṛtaṃ ca memadhuca mesagdhiśca mesapītiśca me
kṛṣiśca mevṛṣṭiśca mejaitraṃ ca ma audbhidyaṃ
ca merayiśca merāyaśca mepuṣṭaṃ ca mepuṣṭiśca me
vibhuca meprabhuca mebahu ca mebhūyaśca mepūrṇaṃ
ca mepūrṇataraṃ ca me’kṣitiśca mekūyavāśca me’nnaṃ
ca me’kṣucca mevrīhayaśca meyavāśca me māṣāśca
metilāśca memudgāśca mekhalvāśca me godhūmāśca me
masurāśca mepriyaṃgavaśca me’ṇavaśca me śyāmakāśca
me nīvārāśca me॥ 4॥

aśmā ca me mṛttikā ca me girayaśca me parvatāśca me
sikatāśca me vanaspatayaśca mehiraṇyaṃ ca me’yaśca
mesīsaṃ ca metrapuśca meśyāmaṃ ca melohaṃ ca
me’gniśca ma āpaśca mevīrudhaśca ma oṣadhayaśca
me kṛṣṭapacyaṃ ca me’kṛṣṭapacyaṃ ca me grāmyāśca
me paśava āraṇyāśca yajñena kalpantāṃ vittaṃ ca me

vittiśca me bhūtaṃ ca me bhūtiśca me vasuca me
vasatiśca mekarma ca meśaktiśca me’rthaśca ma
emaśca ma itiśca megatiśca me॥ 5॥

agniśca ma indraśca mesomaśca ma indraśca mesavitā
ca ma indraśca mesarasvatī ca ma indraśca mepūṣā ca
ma indraśca me bṛhaspatiśca ma indraśca memitraśca
ma indraśca me varuṇaśca ma indraśca metvaṣṭā ca
ma indraśca me dhātā ca ma indraśca meviṣṇuśca ma
indraśca me’śvinauca ma indraśca memarutaśca ma
indraśca me viśveca medevā indraśca mepṛthivī ca
ma indraśca me’ntarikṣaṃ ca ma indraśca medyauśca
ma indraśca me diśaśca ma indraśca memūrdhā ca ma
indraśca me prajāpatiśca ma indraśca me॥ 6॥

a śuśca meraśmiśca me’dābhyaśca me’dhipatiśca
ma upā śuśca me’ntaryāmaśca ma aindravāyavaśca
me maitrāvaruṇaśca ma āśvinaśca me pratiprasthānaśca me
śukraśca me manthī ca ma āgrayaṇaśca mevaiśvadevaśca
medhruvaśca mevaiśvānaraśca ma ṛtugrahāśca
me’tigrāhyāśca ma aindrāgnaśca me vaiśvadevaśca
me marutvatīyāśca me māhendraśca ma ādityaśca
mesāvitraśca mesārasvataśca me pauṣṇaśca me
pātnīvataśca mehāriyojanaśca me॥ 7॥

idhmaśca me barhiśca me vediśca me dhiṣṇiyāśca me
srucaśca me camasāśca me grāvāṇaśca me svaravaśca
ma uparavāśca me’dhiṣavaṇeca medroṇakalaśaśca
mevāyavyāni ca mepūtabhṛcca ma ādhavanīyaśca ma
āgnīdhraṃ ca mehavirdhānaṃ ca megṛhāśca mesadaśca
mepuroḍāśāśca mepacatāśca me’vabhṛthaśca me
svagākāraśca me॥ 8॥

agniśca me gharmaśca me’rkaśca me sūryaśca me
prāṇaśca me’śvamedhaśca mepṛthivī ca me’ditiśca me
ditiśca medyauśca meśakkvarīraṅgulayo diśaśca
meyajñena kalpantāmṛkca mesāma ca mestomaśca me
yajuśca medīkṣā ca metapaśca ma ṛtuśca mevrataṃ
ca me’horātrayorvṛṣṭyā bṛhadrathantare ca me yajñena
kalpetām ॥ 9॥

garbhāśca me vatsāśca me tryaviśca me tryavī ca me
dityavāṭ ca medityauhī ca mepañcāviśca mepañcāvī
ca me trivatsaśca me trivatsā ca me turyavāṭ ca me
turyauhī ca me paṣṭhavāṭ ca me paṣṭhauhī ca ma ukṣā ca
mevaśā ca ma ṛṣabhaśca mevehacca me’naḍvāñca
me dhenuśca ma āyuryajñena kalpatāṃ prāṇo yajñena
kalpatāmapāno yajñena kalpatāṃ vyānoya jñena kalpatāṃ
cakṣuryajñena kalpatāg śrotraṃ yajñena kalpatāṃ mano
yajñena kalpatāṃ vāgyajñena kalpatāmātmā yajñena kalpatāṃ
yajño yajñena kalpatām ॥ 10॥

ekā ca metisraśca mepañca ca mesapta ca menava
ca ma ekādaśa ca me trayodaśa ca me pañcadaśa ca
me saptadaśa ca me navadaśa ca ma ekavi śatiśca
me trayovi śatiśca me pañcavi śatiśca
me saptavi śatiśca me navavi śatiśca
ma ekatri śacca me trayastri śacca me
catasraśca me’ṣṭauca me dvādaśa ca me ṣoḍaśa
ca mevi śatiśca me caturvi śatiśca
me’ṣṭāvi śatiśca medvātri śacca me
ṣaṭtri śacca me catvari śacca me
catuścatvāri śacca me’ṣṭācatvāri śacca me
vājaśca prasavaścāpijaśca kratuśca suvaśca
mūrdhā ca vyaśniyaścāntyāyanaścāntyaśca bhauvanaśca
bhuvanaścādhipatiśca ॥ 11॥

oṃ iḍā devahūrmanuryajñanīrbṛhaspatirukthāmadāni
śasiṣadviśvedevāḥ sūktavācaḥ pṛthivīmātarmā mā
hisīrmadhumaniṣyemadhujaniṣyemadhuvakṣyāmi
madhuvadiṣyāmi madhumatīṃ devebhyovācamudyāsa
śuśrūṣeṇyāṃ manuṣyebhyastaṃ mā devā avantuśobhāyai
pitaro’numadantu॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

॥ iti śrī kṛṣṇayajurvedīya taittirīya saṃhitāyāṃ caturthakāṇḍe saptamaḥ prapāṭhakaḥ ॥

यह भी पढ़ें

अपराजिता स्तोत्रगजेंद्र मोक्ष स्तोत्रलक्ष्मी नारायण हृदय स्तोत्रपरमेश्वर स्तोत्र मृतसंजीवन स्तोत्रअन्नपूर्णा स्तोत्रकीलक स्तोत्रगंगा स्तोत्रदुर्गा आपदुद्धारक स्तोत्रउमामहेश्वर स्तोत्रमहालक्ष्मी हृदय स्तोत्रसंतान गणपति स्तोत्रसरस्वती अष्टोत्तर शतनाम स्तोत्र नील सरस्वती स्तोत्रशिव महिम्न: स्तोत्रशिव रक्षा स्तोत्रदशावतार स्तोत्रपाशुपतास्त्र स्तोत्रपन्चयुध स्तोत्रममुकुंद माला स्तोत्रगंगा दशहरा स्तोत्रकृष्णलीला वर्णन स्तोत्रघटिकाचल हनुमान स्तोत्रस्वर्णाकर्षण भैरव स्तोत्रतुलसी स्तोत्र

सन्दीप शाह

सन्दीप शाह दिल्ली विश्वविद्यालय से स्नातक हैं। वे तकनीक के माध्यम से हिंदी के प्रचार-प्रसार को लेकर कार्यरत हैं। बचपन से ही जिज्ञासु प्रकृति के रहे सन्दीप तकनीक के नए आयामों को समझने और उनके व्यावहारिक उपयोग को लेकर सदैव उत्सुक रहते हैं। हिंदीपथ के साथ जुड़कर वे तकनीक के माध्यम से हिंदी की उत्तम सामग्री को लोगों तक पहुँचाने के काम में लगे हुए हैं। संदीप का मानना है कि नए माध्यम ही हमें अपनी विरासत के प्रसार में सहायता पहुँचा सकते हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

हिंदी पथ
error: यह सामग्री सुरक्षित है !!